 
                  ओं श्री तुलसीदेव्यै नमः ।
                  ओं श्री सख्यै नमः ।
                  ओं श्रीभद्रायै नमः ।
                  ओं श्रीमनोज्ञानपल्लवायै नमः ।
                  ओं पुरन्दरसतीपूज्यायै नमः ।
                  ओं पुण्यदायै नमः ।
                  ओं पुण्यरूपिण्यै नमः ।
                  ओं ज्ञानविज्ञानजनन्यै नमः ।
                  ओं तत्त्वज्ञान स्वरूपिण्यै नमः ।
                  ओं जानकीदुःखशमन्यै नमः ॥ १० ॥
ओं जनार्दन प्रियायै नमः ।
                  ओं सर्वकल्मष संहार्यै नमः ।
                  ओं स्मरकोटि समप्रभायै नमः ।
                  ओं पाञ्चाली पूज्यचरणायै नमः ।
                  ओं पापारण्यदवानलायै नमः ।
                  ओं कामितार्थ प्रदायै नमः ।
                  ओं गौरीशारदासंसेवितायै नमः ।
                  ओं वन्दारुजन मन्दारायै नमः ।
                  ओं निलिम्पाभरणासक्तायै नमः ।
                  ओं लक्ष्मीचन्द्रसहोदर्यै नमः ।
                  ओं सनकादि मुनिध्येयायै नमः ॥ २० ॥
ओं कृष्णानन्दजनित्र्यै नमः ।
                  ओं चिदानन्दस्वरूपिण्यै नमः ।
                  ओं नारायण्यै नमः ।
                  ओं सत्यरूपायै नमः ।
                  ओं मायातीतायै नमः ।
                  ओं महेश्वर्यै नमः ।
                  ओं वदनच्छविनिर्धूतराकापूर्णनिशाकरायै नमः ।
                  ओं रोचनापङ्कतिलकलसन्निटलभासुरायै नमः ।
                  ओं शुभप्रदायै नमः ।
                  ओं शुद्धायै नमः ॥ ३० ॥
ओं पल्लवोष्ठ्यै नमः ।
                  ओं पद्ममुख्यै नमः ।
                  ओं फुल्लपद्मदलेक्षणायै नमः ।
                  ओं चाम्पेयकलिकाकारनासादण्डविराजितायै नमः ।
                  ओं मन्दस्मितायै नमः ।
                  ओं मञ्जुलाङ्ग्यै नमः ।
                  ओं माधवप्रियभामिन्यै नमः ।
                  ओं माणिक्यकङ्कणाढ्यायै नमः ।
                  ओं मणिकुण्डलमण्डितायै नमः ।
                  ओं इन्द्रसम्पत्कर्यै नमः ।
                  ओं शक्त्यै नमः ॥ ४० ॥
ओं इन्द्रगोपनिभाम्शुकायै नमः ।
                  ओं क्षीराब्धितनयायै नमः ।
                  ओं क्षीरसागरसंभवायै नमः ।
                  ओं शान्तिकान्तिगुणोपेतायै नमः ।
                  ओं बृन्दानुगुणसम्पत्यै नमः ।
                  ओं पूतात्मिकायै नमः ।
                  ओं पूतनादिस्वरूपिण्यै नमः ।
                  ओं योगध्येयायै नमः ।
                  ओं योगानन्दकरायै नमः ।
                  ओं चतुर्वर्गप्रदायै नमः ॥ ५० ॥
ओं चातुर्वर्णैकपावनायै नमः ।
                  ओं त्रिलोकजनन्यै नमः ।
                  ओं गृहमेधिसमाराध्यायै नमः ।
                  ओं सदानाङ्गणपावनायै नमः ।
                  ओं मुनीन्द्रहृदयावासायै नमः ।
                  ओं मूलप्रकृतिसञ्ज्ञिकायै नमः ।
                  ओं ब्रह्मरूपिण्यै नमः ।
                  ओं परञ्ज्योतिषे नमः ।
                  ओं अवांङ्मानसगोचरायै नमः ।
                  ओं पञ्चभूतात्मिकायै नमः ॥ ६० ॥
ओं पञ्चकलात्मिकायै नमः ।
                  ओं योगाच्युतायै नमः ।
                  ओं यज्ञरूपिण्यै नमः ।
                  ओं संसारदुःखशमन्यै नमः ।
                  ओं सृष्टिस्थित्यन्तकारिण्यै नमः ।
                  ओं सर्वप्रपञ्च निर्मात्र्यै नमः ।
                  ओं वैष्णव्यै नमः ।
                  ओं मधुरस्वरायै नमः ।
                  ओं निर्गुणायै नमः ।
                  ओं नित्यायै नमः ॥ ७० ॥
ओं निराटङ्कायै नमः ।
                  ओं दीनजनपालनतत्परायै नमः ।
                  ओं क्वणत्किङ्किणिकाजालरत्न काञ्चीलसत्कट्यै नमः ।
                  ओं चलन्मञ्जीर चरणायै नमः ।
                  ओं चतुराननसेवितायै नमः ।
                  ओं अहोरात्रकारिण्यै नमः ।
                  ओं मुक्ताहारभराक्रान्तायै नमः ।
                  ओं मुद्रिकारत्नभासुरायै नमः ।
                  ओं सिद्धप्रदायै नमः ।
                  ओं अमलायै नमः ॥ ८० ॥
ओं कमलायै नमः ।
                  ओं लोकसुन्दर्यै नमः ।
                  ओं हेमकुंभकुचद्वयायै नमः ।
                  ओं लसितकुंभकुचद्वयै नमः ।
                  ओं चञ्चलायै नमः ।
                  ओं लक्ष्म्यै नमः ।
                  ओं श्रीकृष्णप्रियायै नमः ।
                  ओं श्रीरामप्रियायै नमः ।
                  ओं श्रीविष्णुप्रियायै नमः ।
                  ओं शङ्कर्यै नमः ॥ ९० ॥
ओं शिवशङ्कर्यै नमः ।
                  ओं तुलस्यै नमः ।
                  ओं कुन्दकुट्मलरदनायै नमः ।
                  ओं पक्वबिम्बोष्ठ्यै नमः ।
                  ओं शरच्चन्द्रिकायै नमः ।
                  ओं चाम्पेयनासिकायै नमः ।
                  ओं कम्बुसुन्दर गलायै नमः ।
                  ओं तटिल्ल ताङ्ग्यै नमः ।
                  ओं मत्त बंभरकुन्तायै नमः ।
                  ओं नक्षत्रनिभनखायै नमः ॥ १०० ॥
ओं रंभानिभोरुयुग्मायै नमः ।
                  ओं सै कतश्रोण्यै नमः ।
                  ओं मन्दकण्ठीरवमध्यायै नमः ।
                  ओं कीरवाण्यै नमः ।
                  ओं श्रीभद्रायै नमः ।
                  ओं श्री सख्यै नमः ।
                  ओं श्री तुलसीदेव्यै नमः ।
                  ओं श्रीमहातुलस्यै नमः । १०८ |
|| इति श्री तुलसी अष्टोत्तरशतनामावलिः पूर्ण ||
