ॐ उदयगिरिमुपेतं भास्करं पद्महस्तं सकलभुवननेत्रं रत्नरज्जूपमेयम् ।
                  तिमिरकरिमृगेंद्रं बोधकं पद्मिनीनां सुरवरमभिवंद्यं सुंदरं विश्वदीपम् ॥ 1 ॥
ॐ शिखायां भास्कराय नमः ।
                  ॐ ललाटे सूर्याय नमः ।
                  ॐ भ्रूमध्ये भानवे नमः ।
                  ॐ कर्णयोः दिवाकराय नमः ।
                  ॐ नासिकायां भानवे नमः ।
                  ॐ नेत्रयोः सवित्रे नमः ।
                  ॐ मुखे भास्कराय नमः ।
                  ॐ ओष्ठयोः पर्जन्याय नमः ।
                  ॐ पादयोः प्रभाकराय नमः ॥ 2 ॥
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ।
                  ॐ हंसां हंसीं हंसूं हंसैं हंसौं हंसः ॥ 3 ॥
ॐ सत्यतेजोज्ज्वलज्वालामालिने मणिकुंभाय हुं फट् स्वाहा ।
                  ॐ स्थितिरूपककारणाय पूर्वादिग्भागे मां रक्षतु ॥ 4 ॥
ॐ ब्रह्मतेजोज्ज्वलज्वालामालिने मणिकुंभाय हुं फट् स्वाहा ।
                  ॐ तारकब्रह्मरूपाय परयंत्र-परतंत्र-परमंत्र-सर्वोपद्रवनाशनार्थं दक्षिणदिग्भागे मां रक्षतु ॥ 5 ॥
ॐ विष्णुतेजोज्ज्वलज्वालामालिने मणिकुंभाय हुं फट् स्वाहा ।
                  ॐ प्रचंडमार्तांड उग्रतेजोरूपिणे मुकुरवर्णाय तेजोवर्णाय मम सर्वराजस्त्रीपुरुष-वशीकरणार्थं पश्चिमदिग्भागे मां रक्षतु ॥ 6 ॥
ॐ रुद्रतेजोज्ज्वलज्वालामालिने मणिकुंभाय हुं फट् स्वाहा ।
                  ॐ भवाय रुद्ररूपिणे उत्तरदिग्भागे सर्वमृत्योपशमनार्थं मां रक्षतु ॥ 7 ॥
ॐ अग्नितेजोज्ज्वलज्वालामालिने मणिकुंभाय हुं फट् स्वाहा ।
                  ॐ तिमिरतेजसे सर्वरोगनिवारणाय ऊर्ध्वदिग्भागे मां रक्षतु ॥ 8 ॥
ॐ सर्वतेजोज्ज्वलज्वालामालिने मणिकुंभाय हुं फट् स्वाहा ।
                  ॐ नमस्कारप्रियाय श्रीसूर्यनारायणाय अधोदिग्भागे सर्वाभीष्टसिद्ध्यर्थं मां रक्षतु ॥ 9 ॥
ॐ मार्तांडाय नमः भानवे नमः
                  ॐ हंसाय नमः सूर्याय नमः
                  ॐ दिवाकराय नमः तपनाय नमः
                  ॐ भास्कराय नमः मां रक्षतु ॥ 10 ॥
मित्र-रवि-सूर्य-भानु-खगपूष-हिरण्यगर्भ-
                  मरीच्यादित्य-सवित्रर्क-भास्करेभ्यो नमः शिरस्थाने मां रक्षतु ॥ 11 ॥
सूर्यादि नवग्रहेभ्यो नमः ललाटस्थाने मां रक्षतु ॥ 12 ॥
धराय नमः धृवाय नमः
                  सोमाय नमः अथर्वाय नमः
                  अनिलाय नमः अनलाय नमः
                  प्रत्यूषाय नमः प्रतापाय नमः
                  मूर्ध्निस्थाने मां रक्षतु ॥ 13 ॥
वीरभद्राय नमः गिरीशाय नमः
                  शंभवे नमः अजैकपदे नमः
                  अहिर्बुध्ने नमः पिनाकिने नमः
                  भुवनाधीश्वराय नमः दिशांतपतये नमः
                  पशुपतये नमः स्थाणवे नमः
                  भवाय नमः ललाटस्थाने मां रक्षतु ॥ 14 ॥
धात्रे नमः अंशुमते नमः
                  पूष्णे नमः पर्जन्याय नमः
                  विष्णवे नमः नेत्रस्थाने मां रक्षतु ॥ 15 ॥
अरुणाय नमः सूर्याय नमः
                  इंद्राय नमः रवये नमः
                  सुवर्णरेतसे नमः यमाय नमः
                  दिवाकराय नमः कर्णस्थाने मां रक्षतु ॥ 16 ॥
असितांगभैरवाय नमः रुरुभैरवाय नमः
                  चंडभैरवाय नमः क्रोधभैरवाय नमः
                  उन्मत्तभैरवाय नमः भीषणभैरवाय नमः
                  कालभैरवाय नमः संहारभैरवाय नमः
                  मुखस्थाने मां रक्षतु ॥ 17 ॥
ब्राह्म्यै नमः महेश्वर्यै नमः
                  कौमार्यै नमः वैष्णव्यै नमः
                  वराह्यै नमः इंद्राण्यै नमः
                  चामुंडायै नमः कंठस्थाने मां रक्षतु ॥ 18 ॥
इंद्राय नमः अग्नये नमः
                  यमाय नमः निर्ऋतये नमः
                  वरुणाय नमः वायवे नमः
                  कुबेराय नमः ईशानाय नमः
                  बाहुस्थाने मां रक्षतु ॥ 19 ॥
मेषादिद्वादशराशिभ्यो नमः हृदयस्थाने मां रक्षतु ॥ 20 ॥
वज्रायुधाय नमः शक्त्यायुधाय नमः
                  दंडायुधाय नमः खड्गायुधाय नमः
                  पाशायुधाय नमः अंकुशायुधाय नमः
                  गदायुधाय नमः त्रिशूलायुधाय नमः
                  पद्मायुधाय नमः चक्रायुधाय नमः
                  कटिस्थाने मां रक्षतु ॥ 21 ॥
मित्राय नमः दक्षिणहस्ते मां रक्षतु ।
                  रवये नमः वामहस्ते मां रक्षतु ।
                  सूर्याय नमः हृदये मां रक्षतु ।
                  भानवे नमः मूर्ध्निस्थाने मां रक्षतु ।
                  खगाय नमः दक्षिणपादे मां रक्षतु ।
                  पूष्णे नमः वामपादे मां रक्षतु ।
                  हिरण्यगर्भाय नमः नाभिस्थाने मां रक्षतु ।
                  मरीचये नमः कंठस्थाने मां रक्षतु ।
                  आदित्याय नमः दक्षिणचक्षूषि मां रक्षतु ।
                  सवित्रे नमः वामचक्षुषि मां रक्षतु ।
                  भास्कराय नमः हस्ते मां रक्षतु ।
                  अर्काय नमः कवचे मां रक्षतु ॥ 22
ॐ भास्कराय विद्महे महाद्युतिकराय धीमहि । तन्नो आदित्यः प्रचोदयात् ॥ 23 ॥
॥ इति श्री सूर्य पंजर स्तोत्रम् ॥
 



































