मेधा सूक्तम्

Saraswati Ma

ॐ यश्छन्द’सामृषभो विश्वरू’पः |
छन्दोभ्योऽध्यमृता”थ्सम्बभूव’ |
स मेन्द्रो’ मेधया” स्पृणोतु |
अमृत’स्य देवधार’णो भूयासम् |
शरी’रं मे विच’र्षणम् |
जिह्वा मे मधु’मत्तमा |
कर्णा”भ्यां भूरिविश्रु’वम् |
ब्रह्म’णः कोशो’ऽसि मेधया पि’हितः |
श्रुतं मे’ गोपाय ‖
ॐ शान्तिः शान्तिः शान्तिः’ ‖

ॐ मेधादेवी जुषमा’णा न आगा”द्विश्वाची’ भद्रा सु’मनस्य मा’ना |
त्वया जुष्टा’ नुदमा’ना दुरुक्ता”न् बृहद्व’देम विदथे’ सुवीरा” |

त्वया जुष्ट’ ऋषिर्भ’वति देवि त्वया ब्रह्मा’ऽऽगतश्री’रुत त्वया” |
त्वया जुष्ट’श्चित्रं वि’न्दते वसु सा नो’ जुषस्व द्रवि’णो न मेधे ‖

मेधां म इन्द्रो’ ददातु मेधां देवी सर’स्वती |
मेधां मे’ अश्विना’वुभा-वाध’त्तां पुष्क’रस्रजा |

अप्सरासु’ च या मेधा गं’धर्वेषु’ च यन्मनः’ |
दैवीं” मेधा सर’स्वती सा मां” मेधा सुरभि’र्जुषताग् स्वाहा” ‖

आमां” मेधा सुरभि’र्विश्वरू’पा हिर’ण्यवर्णा जग’ती जगम्या |
ऊर्ज’स्वती पय’सा पिन्व’माना सा मां” मेधा सुप्रती’का जुषन्ताम् ‖


मयि’ मेधां मयि’ प्रजां मय्यग्निस्तेजो’ दधातु
मयि’ मेधां मयि’ प्रजां मयीन्द्र’ इंद्रियं द’धातु
मयि’ मेधां मयि’ प्रजां मयि सूर्यो भ्राजो’ दधातु ‖

ॐ हंस हंसाय’ विद्महे’ परमहंसाय’ धीमहि |
तन्नो’ हंसः प्रचोदया”त् ‖

ॐ शान्तिः शान्तिः शान्तिः’ ‖

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें