ऋग्वेदं षष्ठं मण्डलं ६१ सूक्तम् ।
इयमददाद्रभसमृणच्युतं दिवोदासं वध्र्यश्वायं दाशुषे।
या शश्वन्तमाचखशदावसं पणिं ता तेदात्राणि तविषा सरस्वती ॥ १॥
इयं शुष्मेभिर्बिसखा इवारुजत्सानुं गिरीणां तविषेभिरूर्मिभिः ।
पारावतघ्नीमवसेसुवृक्तिभिः सरस्वती मा विवासेम धीतिभिः ॥ २॥
सरस्वति देवनिदोनि बर्हय प्रजां विश्वस्य बृसयस्य मायिनः ।
उत क्षितिभ्योऽवनीरविन्दोविषमेभ्योअस्रवोवाजिनीवति ॥ ३॥
प्रणोदेवी सरस्वती वाजेभिर्वाजिनीवती । धीनामवित्र्यवतु॥ ४॥
यस्त्वा देवि सरस्वत्युपब्रूतेधनेहिते। इन्द्रं न वृत्रतूर्ये ॥ ५॥
त्वं देवि सरस्वत्यवा वाजेषुवाजिनि । रदा पूषेव नः सनिम् ॥ ६॥
उत स्या नः सरस्वती घोरा हिरण्यवर्तनिः । वृत्रघ्नी वष्टि सुष्टुतिम् ॥ ७॥
यस्या अनन्तोअह्रुतस्त्वेषश्चरिष्णुरर्णवः । अमश्चरति रोरुवत् ॥ ८॥
सा नोविश्वा अति द्विषः स्वसॄरन्या ऋतावरी । अतन्नहेव सूर्यः ॥ ९॥
उत नः प्रिया प्रियासुसप्तस्वसा सुजुष्टा । सरस्वती स्तोम्या भूत् ॥ १०॥
आपप्रुषी पार्थिवान्युरु रजोअन्तरिक्षम् । सरस्वती निदस्पातु॥ ११॥
त्रिषधस्था सप्तधातुः पञ्चं जाता वर्धयन्ती । वाजेवाजेहव्याभूत् ॥ १२॥
प्र या महिम्ना महिनासुचेकितेद्युम्नेभिरन्या अपसामपस्तमा ।
रथ इव बृहती विभ्वनेकृतोपस्तुत्या चिकितुषा सरस्वती ॥ १३॥
सरस्वत्यभि नोनेषि वस्योमाप स्फरीः पयसा मा न आ धक् ।
जुषस्व नः सख्या वेश्या च मा त्वत् क्षेत्राण्यरेणानि गन्म ॥ १४॥
प्र क्षोसा धायसा सस्र एषा सरस्वती धरुणमाय॑सी पूः ।
प्रबाबधाना रथ्येव याति विश्वा अपोमहिना सिन्धुरन्याः ॥ १५॥
एकाचेतत् सरस्वती नदीनां शुचिर्यती गिरिभ्य आ समुद्रात् ।
रायश्चेतन्ती भुवनस्य भूरेर्घृतं पयोदुदुहेनाहुषाय ॥ १६॥
स वावृधेनर्यो योषणासुवृषा शिशुर्वृषभोयज्ञियासु।
स वाजिनं मघवद्भ्योदधाति वि सातयेतन्वं मामृजीत ॥ १७॥
उत स्या नः सरस्वती जुषाणोप श्रवत् सुभगा यज्ञेअस्मिन् ।
मितज्ञुभिर्नमस्यैरियाना राया युजा चिदुत्तरा सखिभ्यः ॥ १८॥
इमा जुह्वाना युप्मदा नमोभिः प्रति स्तोमं सरस्वति जुषस्व ।
तव शर्मन् प्रियतमेदधाना उप स्थेयाम शरणं न वृक्षम् ॥ १९॥
अपमुतेसरस्वति वसिष्ठोद्वारावृतस्य सुभगेव्यावः ।
वर्ध शुभ्रेस्तुवतेरासि वाजान् यूयं पात स्वस्तिभिः सदा नः ॥ २०॥
बृहदुगायिषेवचोऽसुर्या नदीनाम् ।
सरस्वतीमिन्महया सुवृक्तिभिः स्तोमैर्वसिष्ठ रोदसी ॥ २१॥
उभेयत्तेमहिना शुभ्रेअन्धसी अधिक्षियन्ति पूरवः ।
सा नोबोध्यवित्री मरुत्सखा चोद राधोमघोनाम् ॥ २२॥
भद्रमिद् भद्रा कृणवत् सरस्वत्यकवारी चेतति वाजिनीवती ।
गृणाना जमदग्निवत् स्तुवाना च वसिष्ठवत् ॥ २३॥
जनीयन्तोन्वग्रवः पुत्रीयन्तः सुदानवः । सरस्वन्तं हवामहे॥ २४॥
येतेसरस्व ऊर्मयोमधुमन्तोघृतश्चुतः । तेभिर्नोऽविता भव ॥ २५॥
पीपिवांसं सरस्वतः स्तनं योविश्वदर्शतः ।
भक्षीमहि प्रजामिषम् ॥ २६॥
अम्बितमेनदीतमेदेवितमेसरस्वति ।
अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि ॥ २७॥
त्वेविश्वा सरस्वति चितायूंषि देव्याम् ।
शुनहोत्रेषुमत्स्व प्रजां देवि दिदिड्ढि नः ॥ २८॥
इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति ।
या तेमन्म गृत्समदा ऋतावरि प्रिया देवेषुजुह्वति ॥ २९॥
पावका नः सरस्वती बाजेभिर्वाजिनीवती । यज्ञ वष्टुधियावसूः ॥ ३०॥
चोदायित्री सूनृतानां चेतन्ती सुमतीनाम् । यज्ञं दधेसरस्वती ॥ ३१॥
महोअर्णः सरस्वती प्र चेतयति केतुना । धियोविश्वा वि रीजति ॥ ३२॥
सरस्वतीं दैव्यन्तोहवन्तेसरस्वतीमध्वरेतायमाने।
सरस्वतीं सुकृतोअह्वयन्त सरस्वती दाशुषेवार्यं दात् ॥ ३३॥
सरस्वति या सरथं ययाथ स्वधाभिर्देवि पितृभिर्मदन्ती ।
आसद्यास्मिन् बर्हिषि मादयस्वानमीवा इष आ धेह्यस्मे॥ ३४॥
सरस्वतीं यां पितरोहवन्तेदक्षिणा यज्ञमभिनक्षमाणाः ।
सहस्रार्घमिळोअत्र भागं रायस्पोषं यजमानेषुधेहि ॥ ३५॥
आ नोदिवोबृहतः पर्वतादा सरस्वती यजता गन्तुयज्ञम् ।
हवं देवी जुजुषाणा घृताची शग्मां नोवाचमुशती शृणोतु॥ ३६॥
राकामहं सुहवीं सुष्टुती हुवेशृणोतुनः सुभगा बोधतुत्मना ।
सीव्यत्वपः सूच्याच्छिद्यमानया ददातुवीरं शतदाययमुक्थ्यम् ॥ ३७॥
यास्तेराके सुमतयः सुपेशसोयाभिर्ददासि दाशुषेवसूनि ।
ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगेरराणा ॥ ३८॥
जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ॥ ३९॥
या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी ।
तस्यैविश्पन्त्यैहविः सिनीवाल्यैजुहोतन ॥ ४०॥
या गुङ्गूर्या सिनीवाली या राका या सरस्वती ।
इन्द्राणीमह्व ऊतयेवरुणानीं स्वस्तये॥ ४१॥