वैशम्पायन उवाच ।
विराटनगरं रम्यं गच्छमानो युधिष्ठिरः ।
अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ १ ॥
यशोदागर्भसंभूतां नारायणवरप्रियाम् ।
नन्दगोपकुले जातां मङ्गल्यां कुलवर्धनीम् ॥ २ ॥
कंसविद्रावणकरीमसुराणां क्षयङ्करीम् ।
शिलातटविनिक्षिप्तामाकाशं प्रति गामिनीम् ॥ ३ ॥
वासुदेवस्य भगिनीं दिव्यमाल्यविभूषिताम् ।
दिव्याम्बरधरां देविं खड्गखेटकधारिणीम् ॥ ४ ॥
भारावतरणे पुण्ये ये स्मरन्ति सदा शिवाम् ।
तान्वै तारयसे पापात्पङ्के गामिव दुर्बलाम् ॥ ५ ॥
स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः ।
आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः ॥ ६ ॥
नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि ।
बालार्कसदृशाकारे पूर्णचन्द्रनिभानने ॥ ७ ॥
चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे ।
मयूरपिच्छवलये केयूराङ्गदधारिणि ॥ ८ ॥
भासि देवि यथा पद्मा नारायणपरिग्रहः ।
स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ॥ ९ ॥
कृष्णच्छविसमा कृष्णा सङ्कर्षणसमानना ।
बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ ॥ १० ॥
पात्री च पङ्कजी घण्टी स्त्री विशुद्धा च या भुवि ।
पाशं धनुर्महाचक्रं विविधान्यायुधानि च ॥ ११ ॥
कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता ।
चन्द्रविस्पर्धिना देवि मुखेन त्वं विराजसे ॥ १२ ॥
मुकुटेन विचित्रेण केशबन्धेन शोभिना ।
भुजङ्गाभोगवासेन श्रोणिसूत्रेण राजता ॥ १३ ॥
विभ्राजसे चाबद्धेन भोगेनेवेह मन्दरः ।
ध्वजेन शिखिपिच्छानामुच्छ्रितेन विराजसे ॥ १४ ॥
कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया ।
तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ॥ १५ ॥
त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि ।
प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ॥ १६ ॥
जया त्वं विजया चैव सङ्ग्रामे च जयप्रदा ।
ममापि विजयं देहि वरदा त्वं च साम्प्रतम् ॥ १७ ॥
विन्ध्ये चैव नगश्रेष्ठे तव स्थानं हि शाश्वतम् ।
कालि कालि महाकालि खड्गखट्वाङ्गधारिणि ॥ १८ ॥
कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणी ।
भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः ॥ १९ ॥
प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि ।
न तेषां दुर्लभं किञ्चित्पुत्रतो धनतोऽपि वा ॥ २० ॥
दुर्गात्तारयसे दुर्गे तत्त्वं दुर्गा स्मृता जनैः ।
कान्तारेष्ववसन्नानां मग्नानां च महार्णवे ।
दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् ॥ २१ ॥
जलप्रतरणे चैव कान्तारेष्वटवीषु च ।
ये स्मरन्ति महादेवि न च सीदन्ति ते नराः ॥ २२ ॥
त्वं कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या सन्ततिर्मतिः ।
सन्ध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिः क्षमा दया ॥ २३ ॥
नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम् ।
व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ॥ २४ ॥
सोऽहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् ।
प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ॥ २५ ॥
त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्य नः ।
शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ॥ २६ ॥
एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् ।
उपगम्य तु राजानामिदं वचनमब्रवीत् ॥ २७ ॥
॥ देव्युवाच ॥
शृणु राजन्महाबाहो मदीयं वचनं प्रभो ।
भविष्यत्यचिरादेव सङ्ग्रामे विजयस्तव ॥ २८ ॥
मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम् ।
राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥ २९ ॥
भात्रृभिः सहितो राजन्प्रीतिं प्राप्स्यसि पुष्कलाम् ।
मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति ॥ ३० ॥
ये च सङ्कीर्तयिष्यन्ति लोके विगतकल्मषाः ।
तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम् ॥ ३१ ॥
प्रवासे नगरे चापि सङ्ग्रामे शत्रुसङ्कटे ।
अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ॥ ३२ ॥
ये स्मरिष्यन्ति मां राजन् यथाऽहं भवता स्मृता ।
न तेषां दुर्लभं किञ्चिदस्मिन् लोके भविष्यति ॥ ३३ ॥
इदं स्तोत्रवरं भक्त्या शृणुयाद्वा पठेत वा ।
तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः ॥ ३४ ॥
मत्प्रसादाच्च वः सर्वान्विराटनगरे स्थितान् ।
न प्रज्ञास्यन्ति कुरवो नरा वा तन्निवासिनः ॥ ३५ ॥
इत्युक्त्वा वरदा देवी युधिष्ठिरमरिन्दमम् ।
रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ॥ ३६ ॥
॥ इति श्रीमन्महाभारते विराटपर्वणि देवी स्तोत्रम् ॥