विनायक अष्टोत्तर शत नाम स्तोत्रम्

Ganesh Ji

विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः ।
स्कंदाग्रजोऽव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः ॥ 1 ॥

अग्निगर्वच्छिदिंद्रश्रीप्रदो वाणीप्रदायकः ।
सर्वसिद्धिप्रदः शर्वतनयः शर्वरीप्रियः ॥ 2 ॥

सर्वात्मकः सृष्टिकर्ता देवानीकार्चितः शिवः ।
सिद्धिबुद्धिप्रदः शांतो ब्रह्मचारी गजाननः ॥ 3 ॥

द्वैमातुरो मुनिस्तुत्यो भक्तविघ्नविनाशनः ।
एकदंतश्चतुर्बाहुश्चतुरः शक्तिसंयुतः ॥ 4 ॥

लंबोदरः शूर्पकर्णो हरिर्ब्रह्मविदुत्तमः ।
काव्यो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥ 5 ॥

पाशांकुशधरश्चंडो गुणातीतो निरंजनः ।
अकल्मषः स्वयं सिद्धः सिद्धार्चितपदांबुजः ॥ 6 ॥


बीजापूरफलासक्तो वरदः शाश्वतः कृती ।
द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत् ॥ 7 ॥

श्रीदोऽज उत्पलकरः श्रीपतिस्तुतिहर्षितः ।
कुलाद्रिभेत्ता जटिलश्चंद्रचूडोऽमरेश्वरः ॥ 8 ॥

नागयज्ञोपवीती च कलिकल्मषनाशनः ।
स्थूलकंठः स्वयंकर्ता सामघोषप्रियः परः ॥ 9 ॥

स्थूलतुंडोऽग्रणीर्धीरो वागीशः सिद्धिदायकः ।
दूर्वाबिल्वप्रियः कांतः पापहारी समाहितः ॥ 10 ॥

आश्रितश्रीकरः सौम्यो भक्तवांछितदायकः ।
शांतोऽच्युतार्च्यः कैवल्यो सच्चिदानंदविग्रहः ॥ 11 ॥

ज्ञानी दयायुतो दांतो ब्रह्मद्वेषविवर्जितः ।
प्रमत्तदैत्यभयदो व्यक्तमूर्तिरमूर्तिमान् ॥ 12 ॥

शैलेंद्रतनुजोत्संगखेलनोत्सुकमानसः ।
स्वलावण्यसुधासारजितमन्मथविग्रहः ॥ 13 ॥

समस्तजगदाधारो मायी मूषकवाहनः ।
रमार्चितो विधिश्चैव श्रीकंठो विबुधेश्वरः ॥ 14 ॥

चिंतामणिद्वीपपतिः परमात्मा गजाननः ।
हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ॥ 15 ॥


अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुम् ।
यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ॥ 16 ॥

दूर्वादलैः बिल्वपत्रैः पुष्पैर्वा चंदनाक्षतैः ।
सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ॥ 17 ॥

॥ इति भविष्योत्तरपुराणे विनायकाष्टोत्तरशतनाम स्तोत्रम् ॥

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें