विदिताखिल शास्त्र सुधा जलधे महितोपनिषत्-कथितार्थ निधे ।
हृदये कलये विमलं चरणं भव शंकर देशिक मे शरणम् ॥ 1 ॥
करुणा वरुणालय पालय मां भवसागर दुःख विदून हृदम् ।
रचयाखिल दर्शन तत्त्वविदं भव शंकर देशिक मे शरणम् ॥ 2 ॥
भवता जनता सुहिता भविता निजबोध विचारण चारुमते ।
कलयेश्वर जीव विवेक विदं भव शंकर देशिक मे शरणम् ॥ 3 ॥
भव ऎव भवानिति मॆ नितरां समजायत चेतसि कौतुकिता ।
मम वारय मोह महाजलधिं भव शंकर देशिक मे शरणम् ॥ 4 ॥
सुकृतेऽधिकृते बहुधा भवतो भविता समदर्शन लालसता ।
अति दीनमिमं परिपालय मां भव शंकर देशिक मे शरणम् ॥ 5 ॥
जगतीमवितुं कलिताकृतयो विचरंति महामाह सच्छलतः ।
अहिमांशुरिवात्र विभासि गुरो भव शंकर देशिक मे शरणम् ॥ 6 ॥
गुरुपुंगव पुंगवकेतन ते समतामयतां न हि कोऽपि सुधीः ।
शरणागत वत्सल तत्त्वनिधे भव शंकर देशिक मे शरणम् ॥ 7 ॥
विदिता न मया विशदैक कला न च किंचन कांचनमस्ति गुरो ।
दृतमेव विधेहि कृपां सहजां भव शंकर देशिक मे शरणम् ॥ 8 ॥