श्री सूर्य नमस्कार मंत्रम्

Surya dev God

ध्येयः सदा सवितृमंडलमध्यवर्ती नारायणः सरसिजासन सन्निविष्टः ।
केयूरवान् मकरकुंडलवान् किरीटी हारी हिरण्मयवपुः धृतशंखचक्रः ॥

1 ॐ मित्राय नमः ।
2 ॐ रवये नमः ।
3 ॐ सूर्याय नमः ।
4 ॐ भानवे नमः ।
5 ॐ खगाय नमः ।
6 ॐ पूष्णे नमः ।
7 ॐ हिरण्यगर्भाय नमः ।
8 ॐ मरीचये नमः ।
9 ॐ आदित्याय नमः ।
10 ॐ सवित्रे नमः ।
11 ॐ अर्काय नमः ।
12 ॐ भास्कराय नमः ।

आदित्यस्य नमस्कारान् ये कुर्वंति दिने दिने ।
आयुः प्रज्ञां बलं वीर्यं तेजस्तेषां च जायते ॥

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें