सूर्य मंडल स्तोत्रम्

surya_dev

नमोऽस्तु सूर्याय सहस्ररश्मये सहस्रशाखान्वित संभवात्मने ।
सहस्रयोगोद्भव भावभागिने सहस्रसंख्यायुधधारिणे नमः ॥ 1 ॥

यन्मंडलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरूपम् ।
दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ 2 ॥

यन्मंडलं देवगणैः सुपूजितं विप्रैः स्तुतं भावनमुक्तिकोविदम् ।
तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ 3 ॥

यन्मंडलं ज्ञानघनंत्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपम् ।
समस्ततेजोमयदिव्यरूपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ 4 ॥

यन्मंडलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम् ।
यत्सर्वपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ 5 ॥

यन्मंडलं व्याधिविनाशदक्षं यदृग्यजुः सामसु संप्रगीतम् ।
प्रकाशितं येन च भूर्भुवः स्वः पुनातु मां तत्सवितुर्वरेण्यम् ॥ 6 ॥


यन्मंडलं वेदविदो वदंति गायंति यच्चारणसिद्धसंघाः ।
यद्योगिनो योगजुषां च संघाः पुनातु मां तत्सवितुर्वरेण्यम् ॥ 7 ॥

यन्मंडलं सर्वजनैश्च पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके ।
यत्कालकालाद्यमनादिरूपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ 8 ॥

यन्मंडलं विष्णुचतुर्मुखाख्यं यदक्षरं पापहरं जनानाम् ।
यत्कालकल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ 9 ॥

यन्मंडलं विश्वसृजं प्रसिद्धं उत्पत्तिरक्षप्रलय प्रगल्भम् ।
यस्मिन् जगत्संहरतेऽखिलं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ 10 ॥

यन्मंडलं सर्वगतस्य विष्णोः आत्मा परं‍धाम विशुद्धतत्त्वम् ।
सूक्ष्मांतरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ 11 ॥

यन्मंडलं वेदविदोपगीतं यद्योगिनां योग पथानुगम्यम् ।
तत्सर्व वेद्यं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ 12 ॥

सूर्यमंडलसु स्तोत्रं यः पठेत्सततं नरः ।
सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥

इति श्री भविष्योत्तरपुराणे श्री कृष्णार्जुन संवादे सूर्यमंडल स्तोत्रम् ।

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें