महा गणपति सहस्रनाम स्तोत्रम्

Ganesh JI

मुनिरुवाच

कथं नाम्नां सहस्रं तं गणेश उपदिष्टवान् ।
शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर ॥ 1 ॥

ब्रह्मोवाच

देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे ।
अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ॥ 2 ॥

मनसा स विनिर्धार्य ददृशे विघ्नकारणम् ।
महागणपतिं भक्त्या समभ्यर्च्य यथाविधि ॥ 3 ॥

विघ्नप्रशमनोपायमपृच्छदपरिश्रमम् ।
संतुष्टः पूजया शंभोर्महागणपतिः स्वयम् ॥ 4 ॥

सर्वविघ्नप्रशमनं सर्वकामफलप्रदम् ।
ततस्तस्मै स्वयं नाम्नां सहस्रमिदमब्रवीत् ॥ 5 ॥

अस्य श्रीमहागणपतिसहस्रनामस्तोत्रमालामंत्रस्य ।
गणेश ऋषिः, महागणपतिर्देवता, नानाविधानिच्छंदांसि ।
हुमिति बीजम्, तुंगमिति शक्तिः, स्वाहाशक्तिरिति कीलकम् ।
सकलविघ्नविनाशनद्वारा श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः ।


अथ करन्यासः

गणेश्वरो गणक्रीड इत्यंगुष्ठाभ्यां नमः ।
कुमारगुरुरीशान इति तर्जनीभ्यां नमः ॥
ब्रह्मांडकुंभश्चिद्व्योमेति मध्यमाभ्यां नमः ।
रक्तो रक्तांबरधर इत्यनामिकाभ्यां नमः
सर्वसद्गुरुसंसेव्य इति कनिष्ठिकाभ्यां नमः ।
लुप्तविघ्नः स्वभक्तानामिति करतलकरपृष्ठाभ्यां नमः ॥

अथ अंगन्यासः

छंदश्छंदोद्भव इति हृदयाय नमः ।
निष्कलो निर्मल इति शिरसे स्वाहा ।
सृष्टिस्थितिलयक्रीड इति शिखायै वषट् ।
ज्ञानं विज्ञानमानंद इति कवचाय हुम् ।
अष्टांगयोगफलभृदिति नेत्रत्रयाय वौषट् ।
अनंतशक्तिसहित इत्यस्त्राय फट् ।
भूर्भुवः स्वरों इति दिग्बंधः ।

अथ ध्यानम्

गजवदनमचिंत्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं
बृहदुदरमशेषं भूतिराजं पुराणम् ।
अमरवरसुपूज्यं रक्तवर्णं सुरेशं
पशुपतिसुतमीशं विघ्नराजं नमामि ॥

श्रीगणपतिरुवाच

ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ।
एकदंतो वक्रतुंडो गजवक्त्रो महोदरः ॥ 1 ॥

लंबोदरो धूम्रवर्णो विकटो विघ्ननाशनः ।
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ॥ 2 ॥

भीमः प्रमोद आमोदः सुरानंदो मदोत्कटः ।
हेरंबः शंबरः शंभुर्लंबकर्णो महाबलः ॥ 3 ॥

नंदनो लंपटो भीमो मेघनादो गणंजयः ।
विनायको विरूपाक्षो वीरः शूरवरप्रदः ॥ 4 ॥

महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ।
रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ॥ 5 ॥

कुमारगुरुरीशानपुत्रो मूषकवाहनः ।
सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः ॥ 6 ॥


अविघ्नस्तुंबुरुः सिंहवाहनो मोहिनीप्रियः ।
कटंकटो राजपुत्रः शाकलः संमितोमितः ॥ 7 ॥

कूष्मांडसामसंभूतिर्दुर्जयो धूर्जयो जयः ।
भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः ॥ 8 ॥

विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः ।
कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः ॥ 9 ॥

ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः ।
हिरण्मयपुरांतःस्थः सूर्यमंडलमध्यगः ॥ 10 ॥

कराहतिध्वस्तसिंधुसलिलः पूषदंतभित् ।
उमांककेलिकुतुकी मुक्तिदः कुलपावनः ॥ 11 ॥

किरीटी कुंडली हारी वनमाली मनोमयः ।
वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः ॥ 12 ॥

सद्योजातः स्वर्णमुंजमेखली दुर्निमित्तहृत् ।
दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः ॥ 13 ॥

सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः ।
पीतांबरः खंडरदः खंडवैशाखसंस्थितः ॥ 14 ॥

चित्रांगः श्यामदशनो भालचंद्रो हविर्भुजः ।
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥ 15 ॥

गणाधिराजो विजयः स्थिरो गजपतिध्वजी ।
देवदेवः स्मरः प्राणदीपको वायुकीलकः ॥ 16 ॥

विपश्चिद्वरदो नादो नादभिन्नमहाचलः ।
वराहरदनो मृत्युंजयो व्याघ्राजिनांबरः ॥ 17 ॥

इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः ।
शंभुवक्त्रोद्भवः शंभुकोपहा शंभुहास्यभूः ॥ 18 ॥

शंभुतेजाः शिवाशोकहारी गौरीसुखावहः ।
उमांगमलजो गौरीतेजोभूः स्वर्धुनीभवः ॥ 19 ॥

यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः ।
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः ॥ 20 ॥

ब्रह्मांडकुंभश्चिद्व्योमभालःसत्यशिरोरुहः ।
जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् ॥ 21 ॥

गिरींद्रैकरदो धर्माधर्मोष्ठः सामबृंहितः ।
ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ॥ 22 ॥

भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः ।
कुलाचलांसः सोमार्कघंटो रुद्रशिरोधरः ॥ 23 ॥

नदीनदभुजः सर्पांगुलीकस्तारकानखः ।
व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः ॥ 24 ॥

कुक्षिस्थयक्षगंधर्वरक्षःकिन्नरमानुषः ।
पृथ्वीकटिः सृष्टिलिंगः शैलोरुर्दस्रजानुकः ॥ 25 ॥

पातालजंघो मुनिपात्कालांगुष्ठस्त्रयीतनुः ।
ज्योतिर्मंडललांगूलो हृदयालाननिश्चलः ॥ 26 ॥

हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः ।
सद्भक्तध्याननिगडः पूजावारिनिवारितः ॥ 27 ॥

प्रतापी काश्यपो मंता गणको विष्टपी बली ।
यशस्वी धार्मिको जेता प्रथमः प्रमथेश्वरः ॥ 28 ॥

चिंतामणिर्द्वीपपतिः कल्पद्रुमवनालयः ।
रत्नमंडपमध्यस्थो रत्नसिंहासनाश्रयः ॥ 29 ॥

तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः ।
नंदानंदितपीठश्रीर्भोगदो भूषितासनः ॥ 30 ॥

सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः ।
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ॥ 31 ॥

सविघ्ननाशिनीपीठः सर्वशक्त्यंबुजालयः ।
लिपिपद्मासनाधारो वह्निधामत्रयालयः ॥ 32 ॥

उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः ।
पीनजंघः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ॥ 33 ॥

निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ।
पीनस्कंधः कंबुकंठो लंबोष्ठो लंबनासिकः ॥ 34 ॥

भग्नवामरदस्तुंगसव्यदंतो महाहनुः ।
ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ॥ 35 ॥

स्तबकाकारकुंभाग्रो रत्नमौलिर्निरंकुशः ।
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ॥ 36 ॥

सर्पकोटीरकटकः सर्पग्रैवेयकांगदः ।
सर्पकक्षोदराबंधः सर्पराजोत्तरच्छदः ॥ 37 ॥

रक्तो रक्तांबरधरो रक्तमालाविभूषणः ।
रक्तेक्षनो रक्तकरो रक्तताल्वोष्ठपल्लवः ॥ 38 ॥

श्वेतः श्वेतांबरधरः श्वेतमालाविभूषणः ।
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ 39 ॥

सर्वावयवसंपूर्णः सर्वलक्षणलक्षितः ।
सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ॥ 40 ॥

सर्वमंगलमांगल्यः सर्वकारणकारणम् ।
सर्वदेववरः शारंगी बीजपूरी गदाधरः ॥ 41 ॥

शुभांगो लोकसारंगः सुतंतुस्तंतुवर्धनः ।
किरीटी कुंडली हारी वनमाली शुभांगदः ॥ 42 ॥

इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् ।
पाशी धृतोत्पलः शालिमंजरीभृत्स्वदंतभृत् ॥ 43 ॥

कल्पवल्लीधरो विश्वाभयदैककरो वशी ।
अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः ॥ 44 ॥

पूर्णपात्री कंबुधरो विधृतांकुशमूलकः ।
करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान् ॥ 45 ॥

पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः ।
भारतीसुंदरीनाथो विनायकरतिप्रियः ॥ 46 ॥

महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः ।
रमारमेशपूर्वांगो दक्षिणोमामहेश्वरः ॥ 47 ॥

महीवराहवामांगो रतिकंदर्पपश्चिमः ।
आमोदमोदजननः सप्रमोदप्रमोदनः ॥ 48 ॥

संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः ।
दंतसौमुख्यसुमुखः कांतिकंदलिताश्रयः ॥ 49 ॥

मदनावत्याश्रितांघ्रिः कृतवैमुख्यदुर्मुखः ।
विघ्नसंपल्लवः पद्मः सर्वोन्नतमदद्रवः ॥ 50 ॥

विघ्नकृन्निम्नचरणो द्राविणीशक्तिसत्कृतः ।
तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् ॥ 51 ॥

मोहिनीमोहनो भोगदायिनीकांतिमंडनः ।
कामिनीकांतवक्त्रश्रीरधिष्ठितवसुंधरः ॥ 52 ॥

वसुधारामदोन्नादो महाशंखनिधिप्रियः ।
नमद्वसुमतीमाली महापद्मनिधिः प्रभुः ॥ 53 ॥

सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः ।
ईशानमूर्धा देवेंद्रशिखः पवननंदनः ॥ 54 ॥

प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक् ।
ऐरावतादिसर्वाशावारणो वारणप्रियः ॥ 55 ॥

वज्राद्यस्त्रपरीवारो गणचंडसमाश्रयः ।
जयाजयपरिकरो विजयाविजयावहः ॥ 56 ॥

अजयार्चितपादाब्जो नित्यानंदवनस्थितः ।
विलासिनीकृतोल्लासः शौंडी सौंदर्यमंडितः ॥ 57 ॥

अनंतानंतसुखदः सुमंगलसुमंगलः ।
ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः ॥ 58 ॥

सुभगासंश्रितपदो ललिताललिताश्रयः ।
कामिनीपालनः कामकामिनीकेलिलालितः ॥ 59 ॥

सरस्वत्याश्रयो गौरीनंदनः श्रीनिकेतनः ।
गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः ॥ 60 ॥

नलिनीकामुको वामारामो ज्येष्ठामनोरमः ।
रौद्रीमुद्रितपादाब्जो हुंबीजस्तुंगशक्तिकः ॥ 61 ॥

विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः ।
अमृताब्धिकृतावासो मदघूर्णितलोचनः ॥ 62 ॥

उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः ।
सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगंबरः ॥ 63 ॥

अनपायोऽनंतदृष्टिरप्रमेयोऽजरामरः ।
अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरः ॥ 64 ॥

अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोमलः ।
अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः ॥ 65 ॥

अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः ।
आधारपीठमाधार आधाराधेयवर्जितः ॥ 66 ॥

आखुकेतन आशापूरक आखुमहारथः ।
इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ॥ 67 ॥

इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः ।
इंद्रगोपसमानश्रीरिंद्रनीलसमद्युतिः ॥ 68 ॥

इंदीवरदलश्याम इंदुमंडलमंडितः ।
इध्मप्रिय इडाभाग इडावानिंदिराप्रियः ॥ 69 ॥

इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः ।
ईशानमौलिरीशान ईशानप्रिय ईतिहा ॥ 70 ॥

ईषणात्रयकल्पांत ईहामात्रविवर्जितः ।
उपेंद्र उडुभृन्मौलिरुडुनाथकरप्रियः ॥ 71 ॥

उन्नतानन उत्तुंग उदारस्त्रिदशाग्रणीः ।
ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ॥ 72 ॥

ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः ।
ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः ॥ 73 ॥

लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् ।
लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः ॥ 74 ॥

एकारपीठमध्यस्थ एकपादकृतासनः ।
एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ॥ 75 ॥

ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः ।
ऐरंमदसमोन्मेष ऐरावतसमाननः ॥ 76 ॥

ॐकारवाच्य ॐकार ओजस्वानोषधीपतिः ।
औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः ॥ 77 ॥

अंकुशः सुरनागानामंकुशाकारसंस्थितः ।
अः समस्तविसर्गांतपदेषु परिकीर्तितः ॥ 78 ॥

कमंडलुधरः कल्पः कपर्दी कलभाननः ।
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥ 79 ॥

कदंबगोलकाकारः कूष्मांडगणनायकः ।
कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ॥ 80 ॥

खर्वः खड्गप्रियः खड्गः खांतांतःस्थः खनिर्मलः ।
खल्वाटशृंगनिलयः खट्वांगी खदुरासदः ॥ 81 ॥

गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः ।
गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ॥ 82 ॥

गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः ।
गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः ॥ 83 ॥

घंटाघर्घरिकामाली घटकुंभो घटोदरः ।
ङकारवाच्यो ङाकारो ङकाराकारशुंडभृत् ॥ 84 ॥

चंडश्चंडेश्वरश्चंडी चंडेशश्चंडविक्रमः ।
चराचरपिता चिंतामणिश्चर्वणलालसः ॥ 85 ॥

छंदश्छंदोद्भवश्छंदो दुर्लक्ष्यश्छंदविग्रहः ।
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ॥ 86 ॥

जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः ।
स्रवद्गंडोल्लसद्धानझंकारिभ्रमराकुलः ॥ 87 ॥

टंकारस्फारसंरावष्टंकारमणिनूपुरः ।
ठद्वयीपल्लवांतस्थसर्वमंत्रेषु सिद्धिदः ॥ 88 ॥

डिंडिमुंडो डाकिनीशो डामरो डिंडिमप्रियः ।
ढक्कानिनादमुदितो ढौंको ढुंढिविनायकः ॥ 89 ॥

तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वंपदनिरूपितः ।
तारकांतरसंस्थानस्तारकस्तारकांतकः ॥ 90 ॥

स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जंगमं जगत् ।
दक्षयज्ञप्रमथनो दाता दानं दमो दया ॥ 91 ॥

दयावांदिव्यविभवो दंडभृद्दंडनायकः ।
दंतप्रभिन्नाभ्रमालो दैत्यवारणदारणः ॥ 92 ॥

दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः ।
धनं धनपतेर्बंधुर्धनदो धरणीधरः ॥ 93 ॥

ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः ।
ध्वनिप्रकृतिचीत्कारो ब्रह्मांडावलिमेखलः ॥ 94 ॥

नंद्यो नंदिप्रियो नादो नादमध्यप्रतिष्ठितः ।
निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ॥ 95 ॥

परं व्योम परं धाम परमात्मा परं पदम् ॥ 96 ॥

परात्परः पशुपतिः पशुपाशविमोचनः ।
पूर्णानंदः परानंदः पुराणपुरुषोत्तमः ॥ 97 ॥

पद्मप्रसन्नवदनः प्रणताज्ञाननाशनः ।
प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः ॥ 98 ॥

फणिहस्तः फणिपतिः फूत्कारः फणितप्रियः ।
बाणार्चितांघ्रियुगलो बालकेलिकुतूहली ।
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ॥ 99 ॥

बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः ।
बृहन्नादाग्र्यचीत्कारो ब्रह्मांडावलिमेखलः ॥ 100 ॥

भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः ।
भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः ॥ 101 ॥

भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः ।
मंत्रो मंत्रपतिर्मंत्री मदमत्तो मनो मयः ॥ 102 ॥

मेखलाहीश्वरो मंदगतिर्मंदनिभेक्षणः ।
महाबलो महावीर्यो महाप्राणो महामनाः ॥ 103 ॥

यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः ।
यशस्करो योगगम्यो याज्ञिको याजकप्रियः ॥ 104 ॥

रसो रसप्रियो रस्यो रंजको रावणार्चितः ।
राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ॥ 105 ॥

लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः ।
लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ॥ 106 ॥

वरेण्यो वह्निवदनो वंद्यो वेदांतगोचरः ।
विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः ॥ 107 ॥

वामदेवो विश्वनेता वज्रिवज्रनिवारणः ।
विवस्वद्बंधनो विश्वाधारो विश्वेश्वरो विभुः ॥ 108 ॥

शब्दब्रह्म शमप्राप्यः शंभुशक्तिगणेश्वरः ।
शास्ता शिखाग्रनिलयः शरण्यः शंबरेश्वरः ॥ 109 ॥

षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः ।
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ॥ 110 ॥

सृष्टिस्थितिलयक्रीडः सुरकुंजरभेदकः ।
सिंदूरितमहाकुंभः सदसद्भक्तिदायकः ॥ 111 ॥

साक्षी समुद्रमथनः स्वयंवेद्यः स्वदक्षिणः ।
स्वतंत्रः सत्यसंकल्पः सामगानरतः सुखी ॥ 112 ॥

हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् ।
हव्यं हुतप्रियो हृष्टो हृल्लेखामंत्रमध्यगः ॥ 113 ॥

क्षेत्राधिपः क्षमाभर्ता क्षमाक्षमपरायणः ।
क्षिप्रक्षेमकरः क्षेमानंदः क्षोणीसुरद्रुमः ॥ 114 ॥

धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः ।
विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः ॥ 115 ॥

आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः ।
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ॥ 116 ॥

मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ।
प्रतिवादिमुखस्तंभो रुष्टचित्तप्रसादनः ॥ 117 ॥

पराभिचारशमनो दुःखहा बंधमोक्षदः ।
लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः ॥ 118 ॥

घटी मुहूर्तः प्रहरो दिवा नक्तमहर्निशम् ।
पक्षो मासर्त्वयनाब्दयुगं कल्पो महालयः ॥ 119 ॥

राशिस्तारा तिथिर्योगो वारः करणमंशकम् ।
लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः ॥ 120 ॥

राहुर्मंदः कविर्जीवो बुधो भौमः शशी रविः ।
कालः सृष्टिः स्थितिर्विश्वं स्थावरं जंगमं जगत् ॥ 121 ॥

भूरापोऽग्निर्मरुद्व्योमाहंकृतिः प्रकृतिः पुमान् ।
ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः ॥ 122 ॥

त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः ।
सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः ॥ 123 ॥

समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः ।
सांख्यं पातंजलं योगं पुराणानि श्रुतिः स्मृतिः ॥ 124 ॥

वेदांगानि सदाचारो मीमांसा न्यायविस्तरः ।
आयुर्वेदो धनुर्वेदो गांधर्वं काव्यनाटकम् ॥ 125 ॥

वैखानसं भागवतं मानुषं पांचरात्रकम् ।
शैवं पाशुपतं कालामुखंभैरवशासनम् ॥ 126 ॥

शाक्तं वैनायकं सौरं जैनमार्हतसंहिता ।
सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् ॥ 127 ॥

बंधो मोक्षः सुखं भोगो योगः सत्यमणुर्महान् ।
स्वस्ति हुंफट् स्वधा स्वाहा श्रौषट् वौषट् वषण् नमः 128 ॥

ज्ञानं विज्ञानमानंदो बोधः संवित्समोऽसमः ।
एक एकाक्षराधार एकाक्षरपरायणः ॥ 129 ॥

एकाग्रधीरेकवीर एकोऽनेकस्वरूपधृक् ।
द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः ॥ 130 ॥

द्वैमातुरो द्विवदनो द्वंद्वहीनो द्वयातिगः ।
त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः ॥ 131 ॥

त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः ।
चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः ॥ 132 ॥

चतुर्बाहुश्चतुर्दंतश्चतुरात्मा चतुर्भुजः ।
चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः 133 ॥

चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसंभवः ॥
पंचाक्षरात्मा पंचात्मा पंचास्यः पंचकृत्तमः ॥ 134 ॥

पंचाधारः पंचवर्णः पंचाक्षरपरायणः ।
पंचतालः पंचकरः पंचप्रणवमातृकः ॥ 135 ॥

पंचब्रह्ममयस्फूर्तिः पंचावरणवारितः ।
पंचभक्षप्रियः पंचबाणः पंचशिखात्मकः ॥ 136 ॥

षट्कोणपीठः षट्चक्रधामा षड्ग्रंथिभेदकः ।
षडंगध्वांतविध्वंसी षडंगुलमहाह्रदः ॥ 137 ॥

षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः ।
षड्वैरिवर्गविध्वंसी षडूर्मिभयभंजनः ॥ 138 ॥

षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः ।
सप्तपातालचरणः सप्तद्वीपोरुमंडलः ॥ 139 ॥

सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः ।
सप्तांगराज्यसुखदः सप्तर्षिगणवंदितः ॥ 140 ॥

सप्तच्छंदोनिधिः सप्तहोत्रः सप्तस्वराश्रयः ।
सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः ॥ 141 ॥

सप्तच्छंदो मोदमदः सप्तच्छंदो मखप्रभुः ।
अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रकृतिकारणम् ॥ 142 ॥

अष्टांगयोगफलभृदष्टपत्रांबुजासनः ।
अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः ॥ 143 ॥

अष्टपीठोपपीठश्रीरष्टमातृसमावृतः ।
अष्टभैरवसेव्योऽष्टवसुवंद्योऽष्टमूर्तिभृत् ॥ 144 ॥

अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः ।
अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः ।
नवनागासनाध्यासी नवनिध्यनुशासितः ॥ 145 ॥

नवद्वारपुरावृत्तो नवद्वारनिकेतनः ।
नवनाथमहानाथो नवनागविभूषितः ॥ 146 ॥

नवनारायणस्तुल्यो नवदुर्गानिषेवितः ।
नवरत्नविचित्रांगो नवशक्तिशिरोद्धृतः ॥ 147 ॥

दशात्मको दशभुजो दशदिक्पतिवंदितः ।
दशाध्यायो दशप्राणो दशेंद्रियनियामकः ॥ 148 ॥

दशाक्षरमहामंत्रो दशाशाव्यापिविग्रहः ।
एकादशमहारुद्रैःस्तुतश्चैकादशाक्षरः ॥ 149 ॥

द्वादशद्विदशाष्टादिदोर्दंडास्त्रनिकेतनः ।
त्रयोदशभिदाभिन्नो विश्वेदेवाधिदैवतम् ॥ 150 ॥

चतुर्दशेंद्रवरदश्चतुर्दशमनुप्रभुः ।
चतुर्दशाद्यविद्याढ्यश्चतुर्दशजगत्पतिः ॥ 151 ॥

सामपंचदशः पंचदशीशीतांशुनिर्मलः ।
तिथिपंचदशाकारस्तिथ्या पंचदशार्चितः ॥ 152 ॥

षोडशाधारनिलयः षोडशस्वरमातृकः ।
षोडशांतपदावासः षोडशेंदुकलात्मकः ॥ 153 ॥

कलासप्तदशी सप्तदशसप्तदशाक्षरः ।
अष्टादशद्वीपपतिरष्टादशपुराणकृत् ॥ 154 ॥

अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः ।
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः ॥ 155 ॥

अष्टादशान्नसंपत्तिरष्टादशविजातिकृत् ।
एकविंशः पुमानेकविंशत्यंगुलिपल्लवः ॥ 156 ॥

चतुर्विंशतितत्त्वात्मा पंचविंशाख्यपूरुषः ।
सप्तविंशतितारेशः सप्तविंशतियोगकृत् ॥ 157 ॥

द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः ।
षट्त्रिंशत्तत्त्वसंभूतिरष्टत्रिंशत्कलात्मकः ॥ 158 ॥

पंचाशद्विष्णुशक्तीशः पंचाशन्मातृकालयः ।
द्विपंचाशद्वपुःश्रेणीत्रिषष्ट्यक्षरसंश्रयः ।
पंचाशदक्षरश्रेणीपंचाशद्रुद्रविग्रहः ॥ 159 ॥

चतुःषष्टिमहासिद्धियोगिनीवृंदवंदितः ।
नमदेकोनपंचाशन्मरुद्वर्गनिरर्गलः ॥ 160 ॥

चतुःषष्ट्यर्थनिर्णेता चतुःषष्टिकलानिधिः ।
अष्टषष्टिमहातीर्थक्षेत्रभैरववंदितः ॥ 161 ॥

चतुर्नवतिमंत्रात्मा षण्णवत्यधिकप्रभुः ।
शतानंदः शतधृतिः शतपत्रायतेक्षणः ॥ 162 ॥

शतानीकः शतमखः शतधारावरायुधः ।
सहस्रपत्रनिलयः सहस्रफणिभूषणः ॥ 163 ॥

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः ॥ 164 ॥

दशसाहस्रफणिभृत्फणिराजकृतासनः ।
अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः ॥ 165 ॥

लक्षाधारः प्रियाधारो लक्षाधारमनोमयः ।
चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः ॥ 166 ॥

चतुरशीतिलक्षाणां जीवानां देहसंस्थितः ।
कोटिसूर्यप्रतीकाशः कोटिचंद्रांशुनिर्मलः ॥ 167 ॥

शिवोद्भवाद्यष्टकोटिवैनायकधुरंधरः ।
सप्तकोटिमहामंत्रमंत्रितावयवद्युतिः ॥ 168 ॥

त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः ।
अनंतदेवतासेव्यो ह्यनंतशुभदायकः ॥ 169 ॥

अनंतनामानंतश्रीरनंतोऽनंतसौख्यदः ।
अनंतशक्तिसहितो ह्यनंतमुनिसंस्तुतः ॥ 170 ॥

इति वैनायकं नाम्नां सहस्रमिदमीरितम् ।
इदं ब्राह्मे मुहूर्ते यः पठति प्रत्यहं नरः ॥ 171 ॥

करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् ।
आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः ॥ 172 ॥

मेधा प्रज्ञा धृतिः कांतिः सौभाग्यमभिरूपता ।
सत्यं दया क्षमा शांतिर्दाक्षिण्यं धर्मशीलता ॥ 173 ॥

जगत्संवननं विश्वसंवादो वेदपाटवम् ।
सभापांडित्यमौदार्यं गांभीर्यं ब्रह्मवर्चसम् ॥ 174 ॥

ओजस्तेजः कुलं शीलं प्रतापो वीर्यमार्यता ।
ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वासता तथा ॥ 175 ॥

धनधान्यादिवृद्धिश्च सकृदस्य जपाद्भवेत् ।
वश्यं चतुर्विधं विश्वं जपादस्य प्रजायते ॥ 176 ॥

राज्ञो राजकलत्रस्य राजपुत्रस्य मंत्रिणः ।
जप्यते यस्य वश्यार्थे स दासस्तस्य जायते ॥ 177 ॥

धर्मार्थकाममोक्षाणामनायासेन साधनम् ।
शाकिनीडाकिनीरक्षोयक्षग्रहभयापहम् ॥ 178 ॥

साम्राज्यसुखदं सर्वसपत्नमदमर्दनम् ।
समस्तकलहध्वंसि दग्धबीजप्ररोहणम् ॥ 179 ॥

दुःस्वप्नशमनं क्रुद्धस्वामिचित्तप्रसादनम् ।
षड्वर्गाष्टमहासिद्धित्रिकालज्ञानकारणम् ॥ 180 ॥

परकृत्यप्रशमनं परचक्रप्रमर्दनम् ।
संग्राममार्गे सवेषामिदमेकं जयावहम् ॥ 181 ॥

सर्ववंध्यत्वदोषघ्नं गर्भरक्षैककारणम् ।
पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् ॥ 182 ॥

देशे तत्र न दुर्भिक्षमीतयो दुरितानि च ।
न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः ॥ 183 ॥

क्षयकुष्ठप्रमेहार्शभगंदरविषूचिकाः ।
गुल्मं प्लीहानमशमानमतिसारं महोदरम् ॥ 184 ॥

कासं श्वासमुदावर्तं शूलं शोफामयोदरम् ।
शिरोरोगं वमिं हिक्कां गंडमालामरोचकम् ॥ 185 ॥

वातपित्तकफद्वंद्वत्रिदोषजनितज्वरम् ।
आगंतुविषमं शीतमुष्णं चैकाहिकादिकम् ॥ 186 ॥

इत्याद्युक्तमनुक्तं वा रोगदोषादिसंभवम् ।
सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः ॥ 187 ॥

प्राप्यतेऽस्य जपात्सिद्धिः स्त्रीशूद्रैः पतितैरपि ।
सहस्रनाममंत्रोऽयं जपितव्यः शुभाप्तये ॥ 188 ॥

महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् ।
इच्छया सकलान् भोगानुपभुज्येह पार्थिवान् ॥ 189 ॥

मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः ।
चंद्रेंद्रभास्करोपेंद्रब्रह्मशर्वादिसद्मसु ॥ 190 ॥

कामरूपः कामगतिः कामदः कामदेश्वरः ।
भुक्त्वा यथेप्सितान्भोगानभीष्टैः सह बंधुभिः ॥ 191 ॥

गणेशानुचरो भूत्वा गणो गणपतिप्रियः ।
नंदीश्वरादिसानंदैर्नंदितः सकलैर्गणैः ॥ 192 ॥

शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः ।
शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः ॥ 193 ॥

जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते ।
निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः ॥ 194 ॥

योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंयुतः ।
निरंतरे निराबाधे परमानंदसंज्ञिते ॥ 195 ॥

विश्वोत्तीर्णे परे पूर्णे पुनरावृत्तिवर्जिते ।
लीनो वैनायके धाम्नि रमते नित्यनिर्वृते ॥ 196 ॥

यो नामभिर्हुतैर्दत्तैः पूजयेदर्चये​एन्नरः ।
राजानो वश्यतां यांति रिपवो यांति दासताम् ॥ 197 ॥

तस्य सिध्यंति मंत्राणां दुर्लभाश्चेष्टसिद्धयः ।
मूलमंत्रादपि स्तोत्रमिदं प्रियतमं मम ॥ 198 ॥

नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि ।
दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् ॥ 199 ॥

अष्टद्रव्यैर्विशेषेण कुर्याद्भक्तिसुसंयुतः ।
तस्येप्सितं धनं धान्यमैश्वर्यं विजयो यशः ॥ 200 ॥

भविष्यति न संदेहः पुत्रपौत्रादिकं सुखम् ।
इदं प्रजपितं स्तोत्रं पठितं श्रावितं श्रुतम् ॥ 201 ॥

व्याकृतं चर्चितं ध्यातं विमृष्टमभिवंदितम् ।
इहामुत्र च विश्वेषां विश्वैश्वर्यप्रदायकम् ॥ 202 ॥

स्वच्छंदचारिणाप्येष येन संधार्यते स्तवः ।
स रक्ष्यते शिवोद्भूतैर्गणैरध्यष्टकोटिभिः ॥ 203 ॥

लिखितं पुस्तकस्तोत्रं मंत्रभूतं प्रपूजयेत् ।
तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरंतरम् ॥ 204 ॥

दानैरशेषैरखिलैर्व्रतैश्च तीर्थैरशेषैरखिलैर्मखैश्च ।
न तत्फलं विंदति यद्गणेशसहस्रनामस्मरणेन सद्यः ॥ 205 ॥

एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहंप्रोज्जिहाने
सायं मध्यंदिने वा त्रिषवणमथवा संततं वा जनो यः ।
स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीर्तिमुच्चैस्तनोति
दारिद्र्यं हंति विश्वं वशयति सुचिरं वर्धते पुत्रपौत्रैः ॥ 206 ॥

अकिंचनोप्येकचित्तो नियतो नियतासनः ।
प्रजपंश्चतुरो मासान् गणेशार्चनतत्परः ॥ 207 ॥

दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि ।
लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी ॥ 208 ॥

आयुष्यं वीतरोगं कुलमतिविमलं संपदश्चार्तिनाशः
कीर्तिर्नित्यावदाता भवति खलु नवा कांतिरव्याजभव्या ।
पुत्राः संतः कलत्रं गुणवदभिमतं यद्यदन्यच्च तत्त –
न्नित्यं यः स्तोत्रमेतत् पठति गणपतेस्तस्य हस्ते समस्तम् ॥ 209 ॥

गणंजयो गणपतिर्हेरंबो धरणीधरः ।
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ॥ 210 ॥

अमोघसिद्धिरमृतमंत्रश्चिंतामणिर्निधिः ।
सुमंगलो बीजमाशापूरको वरदः कलः ॥ 211 ॥

काश्यपो नंदनो वाचासिद्धो ढुंढिर्विनायकः ।
मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ॥ 212 ॥

उपायनं ददेद्भक्त्या मत्प्रसादं चिकीर्षति ।
वत्सरं विघ्नराजोऽस्य तथ्यमिष्टार्थसिद्धये ॥ 213 ॥

यः स्तौति मद्गतमना ममाराधनतत्परः ।
स्तुतो नाम्ना सहस्रेण तेनाहं नात्र संशयः ॥ 214 ॥

नमो नमः सुरवरपूजितांघ्रये नमो नमो निरुपममंगलात्मने ।
नमो नमो विपुलदयैकसिद्धये नमो नमः करिकलभाननाय ते ॥ 215 ॥

किंकिणीगणरचितचरणः प्रकटितगुरुमितचारुकरणः ।
मदजललहरीकलितकपोलः शमयतु दुरितं गणपतिनाम्ना ॥ 216 ॥

॥ इति श्रीगणेशपुराणे उपासनाखंडे ईश्वरगणेशसंवादे
गणेशसहस्रनामस्तोत्रं नाम षट्चत्वारिंशोध्यायः ॥

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें