श्री लक्ष्मी नृसिंहाष्टोत्तर शतनाम स्तोत्रम्

Narsingh Bhagwan

नारसिंहो महासिंहो दिव्यसिंहो महाबलः ।
उग्रसिंहो महादेवस्स्तंभजश्चोग्रलोचनः ॥ 1 ॥

रौद्रस्सर्वाद्भुतः श्रीमान् योगानंदस्त्रिविक्रमः ।
हरिः कोलाहलश्चक्री विजयो जयवर्धनः ॥ 2 ॥

पंचाननः परब्रह्म चाऽघोरो घोरविक्रमः ।
ज्वलन्मुखो ज्वालमाली महाज्वालो महाप्रभुः ॥ 3 ॥

निटिलाक्षस्सहस्राक्षो दुर्निरीक्षः प्रतापनः ।
महादंष्ट्रायुधः प्राज्ञश्चंडकोपी सदाशिवः ॥ 4 ॥

हिरण्यकशिपुध्वंसी दैत्यदानवभंजनः ।
गुणभद्रो महाभद्रो बलभद्रस्सुभद्रकः ॥ 5 ॥

करालो विकरालश्च विकर्ता सर्वकर्तृकः ।
शिंशुमारस्त्रिलोकात्मा ईशस्सर्वेश्वरो विभुः ॥ 6 ॥


भैरवाडंबरो दिव्यश्चाऽच्युतः कवि माधवः ।
अधोक्षजोऽक्षरश्शर्वो वनमाली वरप्रदः ॥ 7 ॥

विश्वंभरोऽद्भुतो भव्यः श्रीविष्णुः पुरुषोत्तमः ।
अनघास्त्रो नखास्त्रश्च सूर्यज्योतिस्सुरेश्वरः ॥ 8 ॥

सहस्रबाहुःस्सर्वज्ञस्सर्वसिद्धिप्रदायकः ।
वज्रदंष्ट्रो वज्रनखो महानंदः परंतपः ॥ 9 ॥

सर्वमंत्रैकरूपश्च सर्वयंत्रविदारणः ।
सर्वतंत्रात्मकोऽव्यक्तस्सुव्यक्तो भक्तवत्सलः ॥ 10 ॥

वैशाखशुक्लभूतोत्थः शरणागतवत्सलः ।
उदारकीर्तिः पुण्यात्मा महात्मा चंडविक्रमः ॥ 11 ॥

वेदत्रयप्रपूज्यश्च भगवान्परमेश्वरः ।
श्रीवत्सांकः श्रीनिवासो जगद्व्यापी जगन्मयः ॥ 12 ॥

जगत्पालो जगन्नाथो महाकायो द्विरूपभृत् ।
परमात्मा परंज्योतिर्निर्गुणश्च नृकेसरी ॥ 13 ॥

परतत्त्वः परंधाम सच्चिदानंदविग्रहः ।
लक्ष्मीनृसिंहस्सर्वात्मा धीरः प्रह्लादपालकः ॥ 14 ॥

इदं श्रीमन्नृसिंहस्य नाम्नामष्टोत्तरं शतम् ।
त्रिसंध्यं यः पठेद्भक्त्या सर्वाभीष्टमवाप्नुयात् ॥ 15 ॥


इति श्रीनृसिंहपूजाकल्पे श्री लक्ष्मीनृसिंहाष्टोत्तरशतनाम स्तोत्रम् ।

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें