सिद्धिविनायक स्तोत्रम्

Shri Ganesh

विघ्नेश विघ्नचयखंडननामधेय श्रीशंकरात्मज सुराधिपवंद्यपाद ।
दुर्गामहाव्रतफलाखिलमंगलात्मन् विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 1 ॥

सत्पद्मरागमणिवर्णशरीरकांतिः श्रीसिद्धिबुद्धिपरिचर्चितकुंकुमश्रीः ।
वक्षःस्थले वलयितातिमनोज्ञशुंडो विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 2 ॥

पाशांकुशाब्जपरशूंश्च दधच्चतुर्भिर्दोर्भिश्च शोणकुसुमस्रगुमांगजातः ।
सिंदूरशोभितललाटविधुप्रकाशो विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 3 ॥

कार्येषु विघ्नचयभीतविरिंचमुख्यैः संपूजितः सुरवरैरपि मोदकाद्यैः ।
सर्वेषु च प्रथममेव सुरेषु पूज्यो विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 4 ॥

शीघ्रांचनस्खलनतुंगरवोर्ध्वकंठस्थूलेंदुरुद्रगणहासितदेवसंघः ।
शूर्पश्रुतिश्च पृथुवर्तुलतुंगतुंदो विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 5 ॥

यज्ञोपवीतपदलंभितनागराज मासादिपुण्यददृशीकृतृक्षराजः ।
भक्ताभयप्रद दयालय विघ्नराज विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 6 ॥


सद्रत्नसारततिराजितसत्किरीटः कौसुंभचारुवसनद्वय ऊर्जितश्रीः ।
सर्वत्रमंगलकरस्मरणप्रतापोविघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 7 ॥

देवांतकाद्यसुरभीतसुरार्तिहर्ता विज्ञानबोधनवरेण तमोऽपहर्ता ।
आनंदितत्रिभुवनेश कुमारबंधो विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ 8 ॥

॥ इति श्रीमुद्गलपुराणे श्रीसिद्धिविनायक स्तोत्रं संपूर्णम् ॥

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें