![ramayana-colorsofbhakti Ramayana](https://colorsofbhakti.in/wp-content/uploads/2021/10/ramayana-colorsofbhakti-1068x419.webp)
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः
राजा जयति सुग्रीवो राघवेणाभिपालितः ।
दासोहं कोसलेंद्रस्य रामस्याक्लिष्टकर्मणः
हनुमान् शत्रुसैन्यानां निहंता मारुतात्मजः ॥
न रावण सहस्रं मे युद्धे प्रतिबलं भवेत्
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ।
अर्धयित्वा पुरीं लंकामभिवाद्य च मैथिलीं
समृद्धार्धो गमिष्यामि मिषतां सर्वरक्षसाम् ॥