अर्ध नारीश्वर स्तोत्रम्

Ardha Nareeswara

चांपेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय ।
धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥ 1 ॥

कस्तूरिकाकुंकुमचर्चितायै चितारजःपुंज विचर्चिताय ।
कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ 2 ॥

झणत्क्वणत्कंकणनूपुरायै पादाब्जराजत्फणिनूपुराय ।
हेमांगदायै भुजगांगदाय नमः शिवायै च नमः शिवाय ॥ 3 ॥

विशालनीलोत्पललोचनायै विकासिपंकेरुहलोचनाय ।
समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ 4 ॥

मंदारमालाकलितालकायै कपालमालांकितकंधराय ।
दिव्यांबरायै च दिगंबराय नमः शिवायै च नमः शिवाय ॥ 5 ॥

अंभोधरश्यामलकुंतलायै तटित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥ 6 ॥


प्रपंचसृष्ट्युन्मुखलास्यकायै समस्तसंहारकतांडवाय ।
जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ॥ 7 ॥

प्रदीप्तरत्नोज्ज्वलकुंडलायै स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय ॥ 8 ॥

एतत्पठेदष्टकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी ।
प्राप्नोति सौभाग्यमनंतकालं भूयात्सदा तस्य समस्तसिद्धिः ॥ 9 ॥

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें