श्री वेंकटेश्वर वज्र कवच स्तोत्रम्

Venkateswara Swami

मार्कंडेय उवाच

नारायणं परब्रह्म सर्वकारण कारकं
प्रपद्ये वॆंकटेशाख्यां तदेव कवचं मम

सहस्रशीर्षा पुरुषो वेंकटेशश्शिरो वतु
प्राणेशः प्राणनिलयः प्राणाण् रक्षतु मे हरिः

आकाशराट् सुतानाथ आत्मानं मे सदावतु
देवदेवोत्तमोपायाद्देहं मे वेंकटेश्वरः

सर्वत्र सर्वकालेषु मंगांबाजानिश्वरः
पालयेन्मां सदा कर्मसाफल्यं नः प्रयच्छतु

य एतद्वज्रकवचमभेद्यं वेंकटेशितुः
सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः


इति श्री वॆंकटेस्वर वज्रकवचस्तोत्रं संपूर्णम् ॥

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें