श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम्

Laxmi - श्री लक्ष्मी

देव्युवाच

देवदेव! महादेव! त्रिकालज्ञ! महेश्वर!
करुणाकर देवेश! भक्तानुग्रहकारक! ॥
अष्टोत्तर शतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ॥

ईश्वर उवाच

देवि! साधु महाभागे महाभाग्य प्रदायकम् ।
सर्वैश्वर्यकरं पुण्यं सर्वपाप प्रणाशनम् ॥
सर्वदारिद्र्य शमनं श्रवणाद्भुक्ति मुक्तिदम् ।
राजवश्यकरं दिव्यं गुह्याद्-गुह्यतरं परम् ॥
दुर्लभं सर्वदेवानां चतुष्षष्टि कलास्पदम् ।
पद्मादीनां वरांतानां निधीनां नित्यदायकम् ॥
समस्त देव संसेव्यं अणिमाद्यष्ट सिद्धिदम् ।
किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकम् ॥
तव प्रीत्याद्य वक्ष्यामि समाहितमनाश्शृणु ।
अष्टोत्तर शतस्यास्य महालक्ष्मिस्तु देवता ॥
क्लीं बीज पदमित्युक्तं शक्तिस्तु भुवनेश्वरी ।
अंगन्यासः करन्यासः स इत्यादि प्रकीर्तितः ॥

ध्यानं

वंदे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यामभयप्रदां मणिगणैः नानाविधैः भूषिताम् ।
भक्ताभीष्ट फलप्रदां हरिहर ब्रह्माधिभिस्सेवितां
पार्श्वे पंकज शंखपद्म निधिभिः युक्तां सदा शक्तिभिः ॥

सरसिज नयने सरोजहस्ते धवल तरांशुक गंधमाल्य शोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूतिकरि प्रसीदमह्यम् ॥

ॐ प्रकृतिं विकृतिं विद्यां सर्वभूत-हितप्रदाम् ।
श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकाम् ॥ 1 ॥

वाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधाम् ।
धन्यां हिरण्ययीं लक्ष्मीं नित्यपुष्टां विभावरीम् ॥ 2 ॥


अदितिं च दितिं दीप्तां वसुधां वसुधारिणीम् ।
नमामि कमलां कांतां काम्यां क्षीरोदसंभवाम् ॥ 3 ॥

अनुग्रहप्रदां बुद्धि-मनघां हरिवल्लभाम् ।
अशोका-ममृतां दीप्तां लोकशोकविनाशिनीम् ॥ 4 ॥

नमामि धर्मनिलयां करुणां लोकमातरम् ।
पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुंदरीम् ॥ 5 ॥

पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमाम् ।
पद्ममालाधरां देवीं पद्मिनीं पद्मगंधिनीम् ॥ 6 ॥

पुण्यगंधां सुप्रसन्नां प्रसादाभिमुखीं प्रभाम् ।
नमामि चंद्रवदनां चंद्रां चंद्रसहोदरीम् ॥ 7 ॥

चतुर्भुजां चंद्ररूपा-मिंदिरा-मिंदुशीतलाम् ।
आह्लाद जननीं पुष्टिं शिवां शिवकरीं सतीम् ॥ 8 ॥

विमलां विश्वजननीं तुष्टिं दारिद्र्यनाशिनीम् ।
प्रीतिपुष्करिणीं शांतां शुक्लमाल्यांबरां श्रियम् ॥ 9 ॥

भास्करीं बिल्वनिलयां वरारोहां यशस्विनीम् ।
वसुंधरा मुदारांगां हरिणीं हेममालिनीम् ॥ 10 ॥

धनधान्यकरीं सिद्धिं सदासौम्यां शुभप्रदाम् ।
नृपवेश्मगतां नंदां वरलक्ष्मीं वसुप्रदाम् ॥ 11 ॥


शुभां हिरण्यप्राकारां समुद्रतनयां जयाम् ।
नमामि मंगलां देवीं विष्णुवक्षःस्थलस्थिताम् ॥ 12 ॥

विष्णुपत्नीं, प्रसन्नाक्षीं नारायणसमाश्रिताम् ।
दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रववारिणीम् ॥ 13 ॥

नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकाम् ।
त्रिकालज्ञानसंपन्नां नमामि भुवनेश्वरीम् ॥ 14 ॥

लक्ष्मीं क्षीरसमुद्रराज तनयां श्रीरंगधामेश्वरीम् ।
दासीभूत समस्तदेव वनितां लोकैक दीपांकुराम् ॥
श्रीमन्मंद कटाक्ष लब्ध विभवद्-ब्रह्मेंद्र गंगाधराम् ।
त्वां त्रैलोक्य कुटुंबिनीं सरसिजां वंदे मुकुंदप्रियाम् ॥ 15 ॥

मातर्नमामि! कमले! कमलायताक्षि ।
श्री विष्णु हृत्-कमलवासिनि! विश्वमातः ॥
क्षीरोदजे कमल कोमल गर्भगौरि ।
लक्ष्मी! प्रसीद सततं समतां शरण्ये ॥ 16 ॥

त्रिकालं यो जपेत् विद्वान् षण्मासं विजितेंद्रियः ।
दारिद्र्य ध्वंसनं कृत्वा सर्वमाप्नोत्-ययत्नतः ॥
देवीनाम सहस्रेषु पुण्यमष्टोत्तरं शतम् ।
येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः ॥ 17 ॥

भृगुवारे शतं धीमान् पठेत् वत्सरमात्रकम् ।
अष्टैश्वर्य मवाप्नोति कुबेर इव भूतले ॥
दारिद्र्य मोचनं नाम स्तोत्रमंबापरं शतम् ।
येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः ॥ 18 ॥

भुक्त्वातु विपुलान् भोगान् अंते सायुज्यमाप्नुयात् ।
प्रातःकाले पठेन्नित्यं सर्व दुःखोप शांतये ।
पठंतु चिंतयेद्देवीं सर्वाभरण भूषिताम् ॥ 19 ॥

॥  इति श्री लक्ष्म्यष्टोत्तरशतनामस्तोत्रं संपूर्णं ॥

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें