योगसूत्र ग्रंथ महर्षि पतंजलि द्वारा रचित है। यह चार पादो में विभाजित है जिसमें 196 सूत्र निबद्ध है। इस ग्रंथ में महर्षि पतंजलि ने यथार्थ रूप में योग के आवश्यक आदर्शों और सिद्धांतों को प्रस्तुत किया है।
इस ग्रंथ के चार अध्याय है- (1) समाधिपाद (2) साधनापाद (3) विभूतिपाद (4) कैवल्यपाद ।
अथ समाधिपादः ।
अथ योगानुशासनम् ॥ 1 ॥
योगश्चित्तवृत्ति निरोधः ॥ 2 ॥
तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ 3 ॥
वृत्ति सारूप्यमितरत्र ॥ 4 ॥
वृत्तयः पंचतय्यः क्लिष्टाऽक्लिष्टाः ॥ 5 ॥
प्रमाण विपर्यय विकल्प निद्रा स्मृतयः ॥ 6 ॥
प्रत्यक्षानुमानागमाः प्रमाणानि ॥ 7 ॥
विपर्ययो मिथ्याज्ञानमतद्रूप प्रतिष्ठम् ॥ 8 ॥
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ 9 ॥
अभाव प्रत्ययालंबना वृत्तिर्निद्रा ॥ 10 ॥
अनुभूत विषयासंप्रमोषः स्मृतिः ॥ 11 ॥
अभ्यास वैराग्याभ्यां तन्निरोधः ॥ 12 ॥
तत्र स्थितौ यत्नोऽभ्यासः ॥ 13 ॥
स तु दीर्घकाल नैरंतर्य सत्कारासेवितो दृढभूमिः ॥ 14 ॥
दृष्टानुश्रविक विषय वितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ 15 ॥
तत्परं पुरुषख्याते-र्गुणवैतृष्ण्यम् ॥ 16 ॥
वितर्क विचारानंदास्मितारूपानुगमात् संप्रज्ञातः ॥ 17 ॥
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ 18 ॥
भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ 19 ॥
श्रद्धा वीर्य स्मृति समाधिप्रज्ञा पूर्वक इतरेषाम् ॥ 20 ॥
तीव्रसंवेगानामासन्नः ॥ 21 ॥
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ 22 ॥
ईश्वरप्रणिधानाद्वा ॥ 23 ॥
क्लेश कर्म विपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ 24 ॥
तत्र निरतिशयं सर्वज्ञबीजम् ॥ 25 ॥
स एषः पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ 26 ॥
तस्य वाचकः प्रणवः ॥ 27 ॥
तज्जपस्तदर्थभावनम् ॥ 28 ॥
ततः प्रत्यक्चेतनाधिगमोऽप्यंतरायाभावश्च ॥ 29 ॥
व्याधि स्त्यान संशय प्रमादालस्याविरति भ्रांति
दर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेंऽतरायाः ॥ 30 ॥
दुःख दौर्मनस्यांगमेजयत्व श्वासप्रश्वासा विक्षेपसहभुवः ॥ 31 ॥
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ 32 ॥
मैत्री करुणा मुदितोपेक्षाणां सुख दुःख पुण्यापुण्य विषयाणाम्-भावनातश्चित्तप्रसादनम् ॥ 33 ॥
प्रच्छर्दन विधारणाभ्यां वा प्राणस्य ॥ 34 ॥
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थिति निबंधिनी ॥ 35 ॥
विशोका वा ज्योतिष्मती ॥ 36 ॥
वीतराग विषयं वा चित्तम् ॥ 37 ॥
स्वप्न निद्रा ज्ञानालंबनं वा ॥ 38 ॥
यथाभिमतध्यानाद्वा ॥ 39 ॥
परमाणु परम महत्त्वांतोऽस्य वशीकारः ॥ 40 ॥
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहण ग्राह्येषु तत्स्थ तदंजनता समापत्तिः ॥ 41 ॥
तत्र शब्दार्थ ज्ञान विकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ 42 ॥
स्मृति परिशुद्धौ स्वरूप शून्येवार्थ मात्रनिर्भासा निर्वितर्का ॥ 43 ॥
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ 44 ॥
सूक्ष्म विषयत्वं चालिंगपर्यवसानम् ॥ 45 ॥
ता एव सबीजः समाधिः ॥ 46 ॥
निर्विचार वैशाराद्येऽध्यात्मप्रसादः ॥ 47 ॥
ऋतंभरा तत्र प्रज्ञा ॥ 48 ॥
श्रुतानुमान प्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ 49 ॥
तज्जः संस्कारोऽन्यसंस्कार प्रतिबंधी ॥ 50 ॥
तस्यापि निरोधे सर्वनिरोधान्निर्बीजस्समाधिः ॥ 51 ॥
इति पातंजलयोगदर्शने समाधिपादो नाम प्रथमः पादः ।