ललिता पंच रत्नम्

Lalita

प्रातः स्मरामि ललितावदनारविंदं
बिंबाधरं पृथुलमौक्तिकशोभिनासम् ।
आकर्णदीर्घनयनं मणिकुंडलाढ्यं
मंदस्मितं मृगमदोज्ज्वलफालदेशम् ॥ 1 ॥

प्रातर्भजामि ललिताभुजकल्पवल्लीं
रक्तांगुलीयलसदंगुलिपल्लवाढ्याम् ।
माणिक्यहेमवलयांगदशोभमानां
पुंड्रेक्षुचापकुसुमेषुसृणीर्दधानाम् ॥ 2 ॥

प्रातर्नमामि ललिताचरणारविंदं
भक्तेष्टदाननिरतं भवसिंधुपोतम् ।
पद्मासनादिसुरनायकपूजनीयं
पद्मांकुशध्वजसुदर्शनलांछनाढ्यम् ॥ 3 ॥

प्रातः स्तुवे परशिवां ललितां भवानीं
त्रय्यंतवेद्यविभवां करुणानवद्याम् ।
विश्वस्य सृष्टविलयस्थितिहेतुभूतां
विद्येश्वरीं निगमवाङ्ममनसातिदूराम् ॥ 4 ॥

प्रातर्वदामि ललिते तव पुण्यनाम
कामेश्वरीति कमलेति महेश्वरीति ।
श्रीशांभवीति जगतां जननी परेति
वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥ 5 ॥

यः श्लोकपंचकमिदं ललितांबिकायाः
सौभाग्यदं सुललितं पठति प्रभाते ।
तस्मै ददाति ललिता झटिति प्रसन्ना
विद्यां श्रियं विमलसौख्यमनंतकीर्तिम् ॥


कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें