धन्वंतरी मंत्र

Shri Dhanwantri

ध्यानं

अच्युतानंत गोविंद विष्णो नारायणाऽमृत
रोगान्मे नाशयाऽशेषानाशु धन्वंतरे हरे ।
आरोग्यं दीर्घमायुष्यं बलं तेजो धियं श्रियं
स्वभक्तेभ्योऽनुगृह्णंतं वंदे धन्वंतरिं हरिम् ॥

शंखं चक्रं जलौकां दधदमृतघटं चारुदोर्भिश्चतुर्भिः ।
सूक्ष्मस्वच्छातिहृद्यांशुक परिविलसन्मौलिमंभोजनेत्रम् ।
कालांभोदोज्ज्वलांगं कटितटविलसच्चारुपीतांबराढ्यम् ।
वंदे धन्वंतरिं तं निखिलगदवनप्रौढदावाग्निलीलम् ॥

धन्वंतरेरिमं श्लोकं भक्त्या नित्यं पठंति ये ।
अनारोग्यं न तेषां स्यात् सुखं जीवंति ते चिरम् ॥

मंत्रं

ॐ नमो भगवते वासुदेवाय धन्वंतरये अमृतकलशहस्ताय [वज्रजलौकहस्ताय] सर्वामयविनाशनाय त्रैलोक्यनाथाय श्रीमहाविष्णवे स्वाहा ।

[पाठांतरः]

ॐ नमो भगवते महासुदर्शनाय वासुदेवाय धन्वंतरये अमृतकलशहस्ताय सर्वभयविनाशाय सर्वरोगनिवारणाय त्रैलोक्यपतये त्रैलोक्यनिधये श्रीमहाविष्णुस्वरूप श्रीधन्वंतरीस्वरूप श्री श्री श्री औषधचक्र नारायणाय स्वाहा ।

गायत्री मंत्रम्

ॐ वासुदेवाय विद्महे सुधाहस्ताय धीमहि ।
तन्नो धन्वंतरिः प्रचोदयात् ।


तारकमंत्रम्

ॐ धं धन्वंतरये नमः ।

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें