बाल मुकुंदाष्टकम्

Lord Venkateshwara

करारविंदेन पदारविंदं मुखारविंदे विनिवेशयंतम् ।
वटस्य पत्रस्य पुटे शयानं बालं मुकुंदं मनसा स्मरामि ॥ 1 ॥

संहृत्य लोकान्वटपत्रमध्ये शयानमाद्यंतविहीनरूपम् ।
सर्वेश्वरं सर्वहितावतारं बालं मुकुंदं मनसा स्मरामि ॥ 2 ॥

इंदीवरश्यामलकोमलांगं इंद्रादिदेवार्चितपादपद्मम् ।
संतानकल्पद्रुममाश्रितानां बालं मुकुंदं मनसा स्मरामि ॥ 3 ॥

लंबालकं लंबितहारयष्टिं शृंगारलीलांकितदंतपंक्तिम् ।
बिंबाधरं चारुविशालनेत्रं बालं मुकुंदं मनसा स्मरामि ॥ 4 ॥

शिक्ये निधायाद्यपयोदधीनि बहिर्गतायां व्रजनायिकायाम् ।
भुक्त्वा यथेष्टं कपटेन सुप्तं बालं मुकुंदं मनसा स्मरामि ॥ 5 ॥

कलिंदजांतस्थितकालियस्य फणाग्ररंगेनटनप्रियंतम् ।
तत्पुच्छहस्तं शरदिंदुवक्त्रं बालं मुकुंदं मनसा स्मरामि ॥ 6 ॥


उलूखले बद्धमुदारशौर्यं उत्तुंगयुग्मार्जुन भंगलीलम् ।
उत्फुल्लपद्मायत चारुनेत्रं बालं मुकुंदं मनसा स्मरामि ॥ 7 ॥

आलोक्य मातुर्मुखमादरेण स्तन्यं पिबंतं सरसीरुहाक्षम् ।
सच्चिन्मयं देवमनंतरूपं बालं मुकुंदं मनसा स्मरामि ॥ 8 ॥

कोई जवाब दें

कृपया अपनी टिप्पणी दर्ज करें!
कृपया अपना नाम यहाँ दर्ज करें